अथ हरितालिकाव्रतकथा
मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बराये च दिगम्बराय नमः शिवायै च नमः शिवाय ॥१॥
कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । गुह्याद् गुह्यतरं गुह्यं कथयस्व महेश्वर ॥२॥
सर्वेषां धर्मसर्वस्वमल्पायासं महत्फलम् । प्रसन्नोऽसि यदा नाथ तथ्यं ब्रूहि मामग्रतः ॥३॥
केन त्वं हि मया प्राप्तस्तपोदानव्रतादिना । अनादिमध्यनिधनो भर्ता चैव जगत्प्रभुः ॥४॥
( ईश्वर उवाच)
शृणु देवि प्रवक्ष्यामि तवाग्रे व्रतमुत्तमम् । यद्गोप्यं मम सर्वस्वं कथयामि तव प्रिये ॥५॥
यथा चोडुगणे चन्द्रो ग्रहाणां भानुरेव च । वर्णानाञ्च यथा विप्रो देवानां विष्णुरुत्तमः ॥६॥
नदीषु च यथा गङ्गा पुराणानाञ्च भारतम् । वेदानाञ्च यथा साम इन्द्रियाणां मनो यथा ॥७॥
पुराणं वेदसर्वस्वमागमेन यथोदितम् । एकाग्रेण शृणुष्वैतद्यथा दृष्टं पुरातनम् ॥८॥
येन पुण्यप्रभावेण प्राप्तमर्द्धासनं मम । सर्वं तत्कथयिष्येऽहं त्वं मम प्रेयसी यतः ॥९॥
भाद्रे मासि सिते पक्षे तृतीया हस्तसंयुता । तदाचरणमात्रेण सर्वपापैः प्रमुच्यते ॥१०॥
शृणु देवि त्वया पूर्व यव्रतं चरितं महत् । तत्सर्वं कथयिष्यामियथावृत्तं हिमाचले ॥११॥
( पार्वत्युवाच)
कथं कृतं मया नाथ व्रतानां व्रतमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर ॥१२॥
(ईश्वर उवाच)
अस्ति देवि महादिव्यं हिमवान्नग उत्तमः । नानावृक्षवरै रम्यो नानाशृङ्गादि चित्रितः ॥१३॥
यत्र देवाः सगन्धर्वाः सिद्धचारणगुह्यकाः । विचरन्ति सदा हृष्टा गन्धर्वा गानतत्पराः ॥१४॥
स्फाटिकैः काञ्चनैर्दिव्यैर्मणिवैदूर्यभूषितैः । भुजैलिखन्निवाकाशं सुहृदो मन्दिरं यथा ॥१५॥
हिमेन सहितो नित्यं गङ्गाध्वनिनिनादितः। तत्र त्वं पार्वती बाला कुर्वती सुमहत्तपः ॥१६॥
अब्दद्वादशकं देवि धूमपानमधोमुखी । संवत्सरं चतुष्षष्टि पक्वपर्णाशनं कृतम् ॥१७॥
दृष्टं तातेन तत्कष्टं चिन्तया दुःखितोऽभवत् । कस्मै देया मया कन्या एवं चिन्तातुरोऽभवत् ॥१८॥
तदैवाम्बरतः प्राप्तो ब्रह्मपुत्रस्तु धर्मवित् । नारदो मुनिशार्दूलः शैलपुत्रीदिदृक्षया ॥१९॥
अर्ध्यादिभिस्तमभ्यर्च्य हिमवानभ्यभाषत ।
(हिमवानुवाच )
किमर्थमागतः स्वामिन् वदस्व मुनिसत्तम ॥२०॥ महद्भाग्येन सम्प्राप्तं त्वदागमनमुत्तमम् ।
(नारद उवाच)
शृणु शैलेन्द्र मद्वाक्यं विष्णुना प्रेषितोस्म्यहम् ॥२१॥ योग्यं योग्याय दातव्यं कन्यारत्नमिदं त्वया ।
वासुदेवसमो नास्ति ब्रह्मविष्णुशिवादिषु ॥२२॥ तस्मै देया त्वया कन्या अत्रार्थे सम्मतं मम ।
(हिमवानुवाच)
वासुदेवः स्वयं देवः कन्यां प्रार्थयते यदि ॥२३॥
तदा मया प्रदातव्या त्वदागमन गौरवात् । इत्येवं गदितं श्रुत्वा तस्य त्वन्तर्दधे मुनिः ॥२४॥
ययौ पीताम्बरधरं शङ्खचक्रगदाधरम् । कृताञ्जलिपुटो भुत्वा मुनीन्द्रस्तमभाषत ॥२५॥
( नारद उवाच)
देव सिद्धं भवत्कार्यं विवाहो निश्चितस्तव । हिमवांस्तु तदा गौरीमुवाच वचनं मुदा ॥२६॥
दत्ताऽसि त्वं मया पुत्रि देवाय गरुडध्वजे । श्रुत्वा वाक्यं पितुर्देवी सखिभिः सहिता वने ॥२७॥
सिंहव्याघ्रमृगैर्व्याप्ते तत्र सुप्ता च निर्जने ।
(सख्युवाच )
किमर्थं दुःखिता देवि कथयस्व ममाग्रतः ॥२८॥ यत्ते भवत्यभिहितं करिष्येऽहं न संशयः ।
( पार्वत्युवाच )
सखि प्रिये शृणुष्वाद्य मनोभिलषितं मम ॥२९॥
कपर्दिनं च भर्तारं करिष्येऽहं न संशयः । एतन्मे चिन्तितं कार्यं तातेन कृतमन्यथा ॥३०॥
तस्माद् देहपरित्यागं करिष्येहं सखि प्रिये । पार्वत्या वचनं श्रुत्वा सखी वचनमब्रवीत् ॥३१॥
पिता यत्र न जानाति गमिष्यामो हि तद्वनम् । इत्येवं सम्मतं कृत्वा गता शीघ्रं महद्वनम् ॥३२॥
पिता निरीक्षयामास हिमवांस्तु गृहे गृहे । केन नीताऽसि मे पुत्रि देवदानवकिन्नरैः ॥३३॥
नारदेन कृतं सत्यं किं दास्ये गरुडध्वजे । इत्येवं चिन्तयाविष्टो मूछितो निपपात ह ॥३४॥
हा हा कृत्वा ततो लोका अभ्यधावन्त तं प्रति। मूर्च्छा प्राप्ता त्वया कस्मात् कथयस्व विशेषतः ॥३५॥
(हिमवानुवाच )
दुःखस्य हेतुं शृणुत कन्यारत्नं हृतं मम । दष्टा वा कालसर्पेण सिंहव्याघ्रण वा हता ॥३६॥
न जाने क्व गता पुत्री केन दुष्टेन वा हृता । चकम्पे शोकसन्तप्तो वातेनेव यथा तरुः ॥३७॥
गिरिर्वनाद्वनं यातस्तदालोकनकारणात् । सिहव्याघ्रैश्च भल्लूकैरहिभिः सहितं वनम् ॥३८॥
त्वं चापि विपिनं घोरे व्रजन्ती सखिभिः सह । तत्र दृष्ट्वा नदीं रम्यां तत्तीरे च महागुहाम् ॥३९॥
ताम्प्रविश्य सखीसार्द्धमन्नभोगविर्जिता । संस्थाप्य वालुकापिण्डं पार्वत्या सहितं मम ॥४०॥
या तृतीया भाद्रपदे हस्तनक्षन्नसंयुता । तत्र वाद्येन गीतेन रात्रौ जागरणं कृतम् ॥४१॥
तेन व्रतप्रभावेण आसनञ्चलितं मम । सम्प्राप्तोऽहं तदा तत्र यत्र, त्वं सखिभिः सह ॥४२॥
प्रसन्नोऽस्मि मया प्रोक्तं वरं ब्रूहि वरानने । यदि देव प्रसन्नोसि भर्ता भव महेश्वर ॥४३॥
तथेत्युक्त्वा त्वहं देवि कैलासं पुनरागतः । ततः प्रभाते सम्प्राप्ते नद्यां कृत्वा विसर्जनम् ॥४४॥
पारणन्तु कृतं तत्र सख्या सार्द्धं त्वया शुभे । हिमवानपि तं देशमाजगाम महावने ॥४५॥
आलोक्य च चतुदिक्षु विह्वलः पतितः पुनः । दृष्ट्वा तत्र नदीतीरे प्रसुप्तं कन्यकाद्वयम् ॥४६॥
उत्थाप्योत्सङ्गमारोप्य रोदनं कृतवान् गिरिः । सिंहव्याघ्राहिभल्लूकैर्वने दुष्टे कुतः स्थिता ४७॥
(पार्वत्युवाच)
शृणु तात मया ज्ञातं त्वं दास्यसीश्वराय माम् । तदन्यथा कृतं येन तेनाहं वनमागता ॥४८॥
ददासि तात यदि मां महेशाय तदा गृहम् । आगमिष्यामि नैवं चेदिह स्थास्यामि निश्चितम् ॥४९॥
तथेत्युक्त्वा हिमवता नीतासि त्वं गृहं प्रति । पश्चाद्दता त्वमस्माकं कृत्वा वैवाहिकीं क्रियाम् ॥५०॥
तेन व्रतप्रभावेण सौभाग्यं साधितं त्वया । अद्यापि व्रतराजस्तु न कस्यापि निवेदितः ॥५१॥
नामाऽस्य व्रतराजस्य शृणु देवि यथाऽभवत् । आलीभिर्हरिता यस्मात्तस्मात् सा हरितालिका ॥५२॥
( पार्वत्युवाच)
नामेदं कथितं तस्य विधिं वद मम प्रभो । किं पुण्यं फलं चास्य केन च क्रियते व्रतम् ॥५३॥
( ईश्वर उवाच)
शृणु देवि विधिं वक्ष्ये नारीणां व्रतमुत्तमम् । कर्तव्यं च विशेषेण यदि सौभाग्यमिच्छति ॥५४॥
तोरणादि च कर्तव्यं कदलीस्तम्भमण्डितम् । आच्छाद्य पट्टवस्त्रेस्तु नानावर्णविचित्रितैः ॥५५॥
चन्दनेन सुगन्धेन लेपयेद् गृहमण्डपम् । शङ्खभेरीमृदङ्गैश्च कारयेद्वहुनिःस्वनैः ॥५६॥
नानामङ्गलगीतञ्च कर्तव्यं मम सद्मनि । स्थापनं तत्र कर्तव्यं पार्वत्या सहितस्य मे ॥५७॥
उपोष्य पूजयेद्भक्त्या कुर्याज्जागरणं निशि । नारिकेलैश्च जम्बीरैः फलैश्च विविधैस्तथा ॥५८॥
ऋतुदेशोद्भवैः सर्वैनैवेद्यैः कुसुमैर्नवैः । धूपदीपादिगन्धैश्च मन्त्रेणानेन पूजयेत् ॥५९॥
नमः शिवाय शान्ताय पञ्चवक्त्राय शूलिने । नन्दिभृङ्गिमहाकाल गणयुक्ताय शम्भवे ॥६०॥
शिवायै हरकान्तायै प्रकृत्यै सृष्टिहेतवे । शिवायै सर्वमाङ्गल्यै शिवरूपे जगन्मये ॥६१॥
शिवे कल्याणदे नित्यं शिवरूपे नमोस्तु ते। शिवरूपे नमस्तुभ्यं शिवायै सततं नमः ॥६२॥
नमस्ते ब्रह्मरूपिण्यै जगद्धात्र्यै नमो नमः । संसारभयसन्तापात् त्राहि मां सिंहवाहिनि ॥६३॥
येन कामेन देवेशि पूजितासि महेश्वरि । राज्यं सौभाग्यसम्पत्तिं देहि मे गिरिकन्यके ॥६४॥
मन्त्रेणानेन देवि त्वां पूजयित्वा मया सह । कथां श्रुत्वा विधानेन दद्यादन्नञ्च भूरिशः ॥६५॥
ब्राह्मणेभ्यो यथाशक्ति देया वस्त्रहिरण्यगाः । अन्येषां भूयसीं देया स्त्रीणां वा भूषणादिकं ॥६६॥
भर्त्रा सह कथां श्रुत्वा भक्तियुक्तेन चेतसा । कृत्वा व्रतेश्वरं देवि सर्वपापैः प्रमुच्यते ॥६७॥
सप्तजन्म भवेद्राज्यं सौभाग्यं चैव वर्द्धते । तृतीयायान्तु या नारी लोभाद्भोजनमाचरेत् ॥६८॥
सप्तजन्म भवेद् बन्ध्या विधवा च पुनः पुनः । दारिद्रय पुत्रशोकश्च कर्कशा दुःखभागिनी ॥६९॥
पच्यते नरके घोरे नोपवासं करोति या । राजते कानने ताम्रे वैष्णवे चाथ मृन्मये ॥७०॥
भाजने विन्यसेदन्नं सवस्नफलदक्षिणम् । भक्त्या निवेद्य विप्राय ततः कुर्याच्च पारणम् ॥७१॥
एवंविधं या कुरुते च नारी, त्वया समाना रमते स्वभर्त्रा ।
भोगाननेकान् भुवि भुज्यमाना, सायुज्यमन्ते लभते हरेण ॥७२॥
अश्वमेधसहस्त्राणि वाजपेयशतानि च । कथाश्रवणमात्रेण तत्फलं लभते नरः ॥३७॥
एतत्ते कथितं देवि तवाग्रे व्रतमुत्तमम् । कोटियज्ञकृतं पुण्यं यस्यानुष्ठानमात्रतः ॥४७॥
॥ इति श्रीभविष्योत्तरपुराणे हरितालिकाव्रतकथा समाप्ता ॥
कथाश्रवण में पति को भी बैठना चाहिये। कथाश्रवण करने के उपरांत आरती आदि करके रात भर भजन कीर्तन करे। अरुणोदय वेला में (सूर्योदय से कुछ काल पूर्व) पुनः आरती, पुष्पांजलि आदि करके विसर्जन करे :
विसर्जन : पुष्पाक्षत लेकर मन्दारमाला ० …. मंत्र पढ़े व अगले मंत्र को पढ़कर विसर्जन करे –
शङ्करेण समायुक्ते गच्छ देवि यथासुखम् । मम दौर्भाग्यनाशाय पुनरागमनाय च ॥ नमः
उमामहेश्वरौ पूजितौ स्थः क्षमेयाथाम् स्वस्थानं गच्छतम् ॥
दक्षिणा – नमोऽद्य कृतैतद् हरितालिका व्रत-पूजन तत्कथा श्रवणकर्म प्रतिष्ठार्थमेतावद्रव्य मूल्यकहिरण्यमग्निदैवतं यथा नाम गोत्राय ब्राह्मणाय दक्षिणामहं ददे ॥
दक्षिणा के साथ-साथ ब्राह्मण को प्रचुर अन्न-वस्त्रादि भी प्रदान करे। धातु प्रतिमा हो तो वो भी ब्राह्मण को ही प्रदान करे। मृण्मयी प्रतिमा हो तो जल में विसर्जन करे। विसर्जन प्रतिमा का होता है चौड़ा का नहीं। चौड़ा प्रतीक मात्र है जो छोटा सा बनाया जाता है। प्रतीकात्मक चौड़े में ही मृण्मयी प्रतिमा, दीप देकर विसर्जन किया जाता है।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।