प्रथमोऽध्यायः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् | देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ॥
एकदा मुनयः सर्वे सर्वलोकहिते रताः । सुरम्ये नैमिषारण्ये गोष्ठीं चक्रुर्मनोरमाम् ॥१॥
तत्रान्तरे महातेजा व्यासशिष्यो महायशाः । सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ॥२॥
तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम् । नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ॥३॥
सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान् । ननाम दण्डवद् भूमो सर्वधर्मविदां वरः ॥४॥
वरासने महाबुद्धिस्तैर्दत्ते मुनिसत्तमः । उवाच सदसो मध्ये सर्वैः शिष्यगणैर्वृतः ॥५॥
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः । बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ॥६॥
शौनक उवाच
महर्षे सूत सर्वज्ञ कलिकाले समागते । केनोपायेन भगवन् हरिभक्तिर्भवेन्नृणाम् ॥७॥
कलौ सर्वे भविष्यन्ति पापकर्म परायणाः । वेदविद्याविहीनाश्च तेषां श्रेयः कथम्भवेत् ॥८॥
कलावन्नगतप्राणाः लोकाः स्वल्पायुषस्तथा । निर्द्धनाश्च भविष्यन्ति नानापीडाप्रपीडिताः ॥९॥
प्रयाससाध्यं सुकृतं शास्त्रेषु श्रूयते द्विज । तस्मात् केऽपि करिष्यन्ति कलौ न सुकृतं जनाः ॥१०॥
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि । सवंशा प्रलयं सर्वे गमिष्यन्ति दुराशयाः ॥११॥
स्वल्पश्रमैरल्पवित्तरल्पकालैश्च सत्तम । यथा भवेन्महापुण्यं तथा कथय सूत नः ॥१२॥
यस्योपदेशतः पुण्यं पापं वा कुरुते जनः । स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम् ॥१३॥
पुण्योपदेशी सदयः कैतवैश्च विवर्जितः । पापायनविरोधी च चत्वारः केशवोपमाः ॥१४॥
ज्ञानं सम्प्राप्य संसारे यः परेभ्यो न यच्छति ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते ॥१५॥
ज्ञानरत्नैश्च रत्नैश्च परसन्तोषकृन्नरः । स ज्ञेयः सुमते नूनं नररूपघरो हरिः ॥१६॥
व्रतेन तपसा किं वा प्राप्स्यते वाञ्छितं फलम् । तत्सर्वं श्रोतुमिच्छामि कथयस्व महामते ॥१७॥
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः । त्वदृते न हि वक्ताऽन्यो यतस्त्वं व्यासशासितः ॥१८॥
सूत उवाच
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः । यतः समस्तभूतानां हितं वाञ्छसि सर्वदा ॥१९॥
शृणु शोनक वक्ष्यामि यत्त्वया श्रोतुमिष्यते । नारदेनैवमुक्तः सन् भगवान् कमलापतिः ॥२०॥
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥२१॥
[इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां प्रथमोऽध्यायः ]